|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.271. अध्यायः 271
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति देवदेवर्षिगिरिनदीतीर्थक्षेत्रादीनां विस्तरेण पृथङ्नामनिर्देशपूर्वकं प्रातःसायं तत्कीर्तनस्य दुरितनिवृत्तिसुकृतप्राप्तिहेतुत्वोत्कीर्तनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
वैशम्पायन उवाच।
शरतल्पगतं भीष्मं पाण्डवोऽथ कुरूद्वहः।
युधिष्ठिरो हितं प्रेप्सुरपृच्छत्कल्मषापहम्॥ 13-271-1(92198)
युधिष्ठिर उवाच। 13-271-2x(7718)
किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते।
विपाप्मा स भवेत्केन किं वा कल्मषनाशनम्॥ 13-271-2(92199)
वैशम्पायन उवाच। 13-271-3x(7719)
तस्मै शुश्रूषमाणाय भूयः शान्तनवस्तदा।
दैवं वंशं यथान्यायमाचष्ट पुरुषर्षभ॥ 13-271-3(92200)
भीष्म उवाच। 13-271-4x(7720)
अयं दैवतवंशो वै ऋषिवंशसमन्वितः।
त्रिसन्ध्यं पठितः पुत्र कल्मषापहरः परः॥ 13-271-4(92201)
यदह्ना कुरुते पापमिन्द्रियैः पुरुषश्चरन्।
बुद्धिपूर्वमबुद्धिर्वा रात्रौ यच्चापि सन्ध्ययोः॥ 13-271-5(92202)
मुच्यते सर्वपापेभ्यः कीर्तयन्वै शुचिः सदा।
नान्धो न बधिरः काले कुरुते स्वस्तिमान्सदा॥ 13-271-6(92203)
तिर्यग्योनिं न गच्छेच्च नरकं सङ्कराणि च।
न च दुःखमयं तस्य मरणे स न मुह्यति॥ 13-271-7(92204)
देवासुरगकुरुर्देवः सर्वभूतनमस्कृतः।
अचिन्त्योथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः॥ 13-271-8(92205)
पितामहो जगन्नाथः सावित्री ब्रह्मणः सती।
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः॥ 13-271-9(92206)
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा।
विशाखो हुतभुग्वायुश्चन्द्रसूर्यौ प्रभाकरौ॥ 13-271-10(92207)
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह।
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः॥ 13-271-11(92208)
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः।
सङ्कल्पः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणः॥ 13-271-12(92209)
वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा।
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः॥ 13-271-13(92210)
तुम्बुरुश्चित्रसेनश्च देवदूतश्च विश्रुतः।
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः॥ 13-271-14(92211)
उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुषा।
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा॥ 13-271-15(92212)
आदित्या वसवो रुद्राः साश्विनः पितरोपि च।
धर्मः श्रुतं तपो दीक्षा व्यवसायः पितामहः॥ 13-271-16(92213)
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा।
शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः॥ 13-271-17(92214)
नक्षत्राण्यृतवश्चैव मासाः पक्षाः सवत्सराः।
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा॥ 13-271-18(92215)
शतद्रुश्च विपाशा च चन्द्रभागा सरस्वती।
सिन्धुश्च देविका चैव प्रभासं पुष्कराणि च॥ 13-271-19(92216)
गङ्गा महानदी वेणा कावेरी नर्मदा तथा।
कुलम्पुना विशल्या च करतोयाम्बुवाहिनी॥ 13-271-20(92217)
सरयूर्गण्डकी चैव लोहितश्च महानदः।
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा॥ 13-271-21(92218)
गोदावरी च वेण्या च कृष्णवेणा तथाऽद्रिजा।
दृषद्वती च कावेरी चक्षुर्मन्दाकिनी तथा॥ 13-271-22(92219)
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च।
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः॥ 13-271-23(92220)
पुण्यतीर्थं सुसलिलं कुरुक्षेत्रं प्रकीर्तितम्।
सिन्धूत्तमं तपो दानं जम्बूमार्गमथापि च॥ 13-271-24(92221)
हिरण्वती वितस्ता च तथा प्लक्षवती नदी।
वेदस्मृतिर्वेदवती मालवाऽथाश्ववत्यपि॥ 13-271-25(92222)
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च।
ऋषिकुल्यास्तथा मेध्या नद्यः सिन्धुवहास्तथा॥ 13-271-26(92223)
चर्मण्वती नदी पुण्या कौशिकी यमुना तथा।
नदी भीमरथी चैव बाहुदा च महानदी॥ 13-271-27(92224)
माहेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती।
नन्दा चापरनन्दा च तथा तीर्थमहाह्रदः॥ 13-271-28(92225)
गयाऽथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम्।
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम्॥ 13-271-29(92226)
पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम्।
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः॥ 13-271-30(92227)
विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः।
मेरुर्महेन्द्रो मलयः श्वेतश्च रजतावृतः॥ 13-271-31(92228)
शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा।
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः॥ 13-271-32(92229)
पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः।
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः॥ 13-271-33(92230)
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा।
पान्तु नः सततं देवाः कीर्तिताऽकीर्तिता मया॥ 13-271-34(92231)
कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः।
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात्॥ 13-271-35(92232)
सर्वसङ्करपापेभ्यो देवतास्तवनन्दकः।
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान्॥ 13-271-36(92233)
कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान्।
यवक्रीतोऽथ रैम्यश्च कक्षीवानौशिजस्तथा॥ 13-271-37(92234)
भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः।
बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः॥ 13-271-38(92235)
भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा। 13-271-39(92236)
मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान्॥ 13-271-39(92237)
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान्।
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ॥ 13-271-40(92238)
पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान्।
उषङ्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान्॥ 13-271-41(92239)
ऋषिर्दीर्घतमाश्चैव गौतमः काश्यपस्तथा।
एकतश्च द्वितश्चैव त्रितश्चैव महानृषिः॥ 13-271-42(92240)
अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः।
उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान्। 13-271-43(92241)
अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान्।
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च॥ 13-271-44(92242)
ऋचीकपुत्रो रामश्च ऋषिरौद्दालकिस्तथा।
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा॥ 13-271-45(92243)
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च।
लोमशो नाचिकेतश्च लोमहर्षण एव च॥ 13-271-46(92244)
ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा।
एष वै समवायश्च ऋषिदेवसमन्वितः॥ 13-271-47(92245)
आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः।
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान्॥ 13-271-48(92246)
धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान्।
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा॥ 13-271-49(92247)
दुष्यन्तो भरतश्चैव चक्रवर्ती महायशाः।
पवनो जनकश्चैव तथा दृष्टरथो नृपः॥ 13-271-50(92248)
रघुर्नरवरश्चैव तथा दशरथो नृपः।
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः॥ 13-271-51(92249)
हरिश्चन्द्रो मरुत्तश्च तथा द़ढरथो नृपः।
महोदर्यो ह्यलर्कश्च ऐलश्चैव नराधिपः॥ 13-271-52(92250)
करंधमो नरश्रेष्ठः कध्मोरश्च नराधिपः।
दक्षोऽम्बरीषः कुकुरो रैवतश्च महायशाः॥ 13-271-53(92251)
कुरु संवरणश्चैव मांधाता सत्यविक्रमः।
मुचुकुन्दश्च राजर्षिर्जह्नुर्जाह्नविसेवितः॥ 13-271-54(92252)
आदिराजः पृथुर्वैन्यो मित्रभानुः प्रियङ्करः।
त्रसद्दस्युस्तथा राजा श्वेतो राजर्षिसत्तमः॥ 13-271-55(92253)
महाभिषश्च विख्यातो निमी राजा तथाऽष्टकः।
आयुः क्षुपश्च राजर्षिः कक्षेयुस्च नराधिपः॥ 13-271-56(92254)
प्रतर्दनो दिवोदासः सुदासः कोसलेश्वरः।
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः॥ 13-271-57(92255)
हविध्रश्च पृषध्रश्च प्रतीपः शान्तनुस्तथा।
अजः प्राचीनबर्हिश्च तथैक्ष्वाकुर्महायशाः॥ 13-271-58(92256)
अनरण्यो नरपतिर्जानुजङ्घस्तथैव च।
कक्षसेनश्च राजर्षिर्ये चान्ये चानुकीर्तिताः॥ 13-271-59(92257)
कल्यमुत्थाय यो नित्यं सन्ध्ये द्वेऽस्तमयोदये।
पठेच्छुचिरनावृत्तः स धर्मफलभाग्भवेत्॥ 13-271-60(92258)
देवा देवर्षयश्चैव स्तुता राजर्षयस्तथा।
पुष्टिमायुर्यशः स्वर्गं विधास्यन्ति ममेश्वराः॥ 13-271-61(92259)
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः।
ध्रुवो जयो मे नित्यः स्यात्परत्र च शुभा गतिः॥ 13-271-62(92260)
`पालय त्वं प्रजाः सर्वाः शान्तात्मा त्वनुशासिता।
द्वैपायनः स्वयंचक्षुः कृष्णस्तेऽस्तु परायणम्॥ 13-271-63(92261)
वैशम्पायन उवाच। 13-271-64x(7721)
इत्युक्त्वोपासनार्थाय विरराम महामतिः॥' ॥ 13-271-64(92262)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकसप्तत्यधिकद्विशततमोऽध्यायः॥ 271 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|